________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् द्वितीय
उद्देशकः ६०१ (A)
जोऽणेण कतो धम्मो, तं देउ न एत्तियं समं तुलति। हाणी जावेगाहं, तावइयं विजथंभणया ॥ ११८२ ॥ [बृ.क.भा.६३०८] |
योऽनेन कृतो धर्मस्तं सर्वं मह्यं ददातु। एवमुक्ते साधुभिर्वक्तव्यं नैतावत् दद्यः, यतो नैतावत्समं तुलति । स प्राह- एकेन संवत्सरेण हीनं प्रयच्छत, तदपि प्रतिषेधनीयं, 'द्वाभ्यां संवत्सराभ्यां[हीनं]दत्त' इति एवं तावत् विभाषा कर्तव्या, यावद् ‘एकेन दिवसेन कृतो योऽनेन धर्मस्तं प्रयच्छत' ततो वक्तव्यं नाभ्यधिकं दद्मः, किन्तु यावत्तद् गृहीतं मुहूर्तादिकृतेन धर्मेण तोल्यमानं समं तुलति तावत्प्रयच्छामः। एवमुक्ते यदि तोलनाय ढोकते तदा विद्यादिभिस्तुला स्तम्भनीया, येन क्षणमात्रकृतेनापि धर्मेण सह न समं तोलयतीति। धर्मतोलनं च धर्माधिकरणिकनीतिशास्त्रप्रसिद्धमिति ततोऽवसातव्यम् ॥११८२ ॥
जइ पुण नेच्छेज तवं, वाणियधम्मे ताहे सुद्धो उ। ___ को पुण वाणियधम्मो?, सामुद्दे संभमे इणमो ॥ ११८३॥
गाथा ११७९-११८५
अर्थजात सामाचारी
६०१ (A)
१. नास्याधिकं-पु. प्रे. ॥
For Private and Personal Use Only