________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
द्वितीय उद्देशकः ५९९ (B)
आहरणमादीत्यत्र आदिशब्दव्याख्यानार्थमाह- गुटिकाप्रयोगतः स्वरभेदनम्, उपलक्षणमेतत् , वर्णभेदं वा कारयेत्। यदि वा अन्तर्धानं ग्रामान्तरप्रेषणेन व्यवधानं, विरेचनं वा ग्लानतोपदर्शनाय कारयितव्यो येन कृच्छेणैष जीवतीति ज्ञात्वा विसृज्यते यदि वा वरधनुरिव गुटिकाप्रयोगतः, पुष्पभूतिराचार्य इव सूक्ष्मध्यानवशतो निश्चलो निरुच्छ्वासस्तथा स्याद् येन मृत इति ज्ञात्वा परित्यज्यते ॥ ११७७ ॥
असतीए विण्णवेंती, रायाणं सो व होज अह भिन्नो। तो से कहिज्जइ धम्मो, अणिच्छमाणे. इमं कुज्जा ॥ ११७८ ॥
एतेषां प्रयोगाणामसति अभावे राजानं विज्ञपयन्ति, यथा तपस्विनमिहपरलोकनि:स्पृहमेष व्रतात् च्यावयतीति। अथ सोऽपि राजा तेन भिन्नो व्युद्ग्राहितो वर्तते ततः ||११७४-११७८ से तस्य राज्ञः प्रतिबोधनाय धर्मः कथ्यते। अथ स धर्मं नेच्छति ततस्तस्मिन् | धर्ममनिच्छति, उपलक्षणमेतत् निमित्तेन वा अतीताऽनागतरूपेण तत्राप्यनाद्रियमाणे इदं वक्ष्यमाणं कुर्यात्॥११७८ ॥ तदेवाह
५९९ (B) १. "ण अविद्यमाने इदं - खं. ॥
गाथा
अर्थजात
प्ररूपणा
For Private and Personal Use Only