________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
द्वितीय
उद्देशकः
५९७ (A)
निधिग्रहणाय मार्गे गच्छन्तमर्थजातं साधुं श्रुत्वा साम्भोगिकोऽसाम्भोगिको वाऽऽचार्योऽर्थं प्रतिजागर्ति उत्पादयति। यदि पुनस्तस्य द्वितीयः संघाटको न विद्यते ततः सङ्घाटकमपि ददाति। अथ कथमपि स ग्लानो जायते ततस्तं ग्लानमपि सन्तं प्रतिजागर्ति, न तुपेक्षते, जिनाज्ञाविराधनप्रसक्तेः॥ ११७१॥ यदुक्तमनन्तरं यतना प्रत्यागच्छता कर्तव्या, तामाह
काउं निसीहियं, अट्ठजायमावेयणं गुरुहत्थे। दाऊण पडिक्कमते, मा पेहेंता मिगा पस्से ॥ ११७२ ॥ दारं ७ ।
[बृ.क.भा.६२९९] यत्रान्यर्गणे स प्राघूर्णिक आयाति, तत्र नैषेधिकीं कृत्वा 'नमः क्षमाश्रमणेभ्य' इत्युदित्वा च मध्ये प्रविशति प्रविश्य च यदर्थजातं तद्गुरुभ्य आवेदयति कथयति। आवेद्य च तदर्थजातं गुरुहस्ते दत्त्वा प्रतिक्रामति । कस्मात् गुरुहस्ते दत्त्वा प्रतिक्रामति ?। न स्वपार्श्व एव स्थिते? इति चेद अत आह-मा प्रेक्षमाणा निरीक्षमाणा मुगा इव मुगा १. गणात् स प्राघूर्णकः - खं ॥
गाथा ११७०-११७ः
अर्थजाते यतना
५९७ (A)
For Private and Personal Use Only