________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् द्वितीय उद्देशक: ५९७ (B)
अगीतार्था क्षुल्लकादयः पश्येयुः गुरुहस्ते च स्थितं न निरीक्षन्ते। अस्मद्गुरूणां समर्पितमिति विरूपसङ्कल्पाऽप्रवृत्तेः ७॥११७२ ॥ सम्प्रति "पंथे जयणा य जा जत्थ" [गा. ११६५] एतद्व्याख्यानार्थमाह
सण्णीव सावओ वा, केवइए देज अट्ठजातस्स। पच्चुप्पन्ननिहाणे, कारणजाए गहणसोही ॥ ११७३ ॥ दारं ८।
[बृ.क.भा. ६३००] यत्र संज्ञी सिद्धपुत्रः श्रावको वा वर्तते तत्र गत्वा तस्मै स्वरूपं निवेदनीयं प्रज्ञापना च कर्तव्या। ततो यत्तत्र तेन प्रत्युत्पन्नं नवं निधानं गृहीतं वर्तते। तस्याऽर्थजातस्य मध्यात्कतिपयान् भागान् दद्यात् स्वयं, तदानीं प्रज्ञापनातो वा, गीतार्थत्वात्। अस्य प्रकारस्याभावे यन्निधानं दूरमवगाढं वर्तत्ते ततस्तेन उत्खन्य दीयमानमधिकृते कारणजाते गृह्णानोऽपि शुद्धः भगवदाज्ञया वर्तनात्। ८ ॥११७३ ॥
गतमवमद्वारम् । इदानीमापनद्वारमाह
गाथा ११७०-११७३ अर्थजाते यतना
५९७ (B)
| १. प्रज्ञापितो वा - वा. मो. पु. ॥
For Private and Personal Use Only