________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
द्वितीय उद्देशकः ५९४ (B)
चेडोऽनाद्रियमाणोऽन्यत्रान्यत्र घोलयति परिभ्रमति। स च तथा परिभ्रमन् कस्यापि गृहे दासत्वमापन्नः। तस्य च पितुर्यथाविहारक्रमं विहरतस्तस्यामेव मथुरायामागमनं जातम् । तेन च सर्वं तद् ज्ञातम् ।।११६४।। सम्प्रति तन्मोचने विधिमभिधित्सुराह
अणुसासकहणठवियं,३ भीसण ववहार,लिंग जं जत्थ६ । दूराभोगगवेसण,७ पंथे जयणा जा जत्थ८ ॥ ११६५॥ [बृ.क.भा.६२९३]
पूर्वमनुशासनं तस्य कर्तव्यम् १। ततो धर्मकथाप्रसङ्गेन कथनं स्थापत्यापुत्रादेः करणीयम् २। एवमप्यतिष्ठति यनिष्क्रामता स्थापितं द्रव्यं तद् गृहीत्वा समर्पणीयम् ३, तस्याभावे निजकानां तस्य वा भीषणमुत्पादनीयम्४, यदि वा राजकुले गत्वा व्यवहार: कार्य: ५। एवमप्यतिष्ठति यद् यत्र लिङ्गं पूज्यं तत् तत्र परिगृह्य स मोचनीयः ६। एतस्यापि प्रयोगस्याभावे दूरेण उच्छिन्नस्वामिकतया दूरदेशव्यवधानेन वा यन्निधानं तस्याऽऽभोगः कर्तव्यः । तदनन्तरं तस्य गवेषणं साक्षानिरीक्षणं करणीयं, गवेषणाय च गमने पथि मार्गे यतना यथा ओघनिर्युक्तावुक्ता तथा कर्तव्या। या च यत्र यतना सापि तत्र विधेया यथासूत्रमिति द्वारगाथासक्षेपार्थः ॥११६५॥
गाथा ११६२-११६९
अर्थजाते उदाहरणम्
५९४ (B)
For Private and Personal Use Only