________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् द्वितीय उद्देशकः ५९३ (B)
प्रत्यभिजानाति, यदि वा ग्रामान्तरादिप्रेषणेन अन्तर्धानं व्यवधानं क्रियते, अथवा तथाविधौषधप्रयोगतो विरेचनं कार्यते तेन स ग्लान इव लक्ष्यते, ततः कृच्छ्रेणैष जीवतीति ज्ञात्वा सा तं मुञ्चति। अथवा शक्तौ सत्यां यथा ब्रह्मदत्तहिण्ड्यां धनुःपुत्रेण वरधनुना मृतकवेषकः कृतस्तथा निश्चलो निरुच्छ्वासः सूक्ष्ममुच्छ्वन् तिष्ठति येन मृत इति ज्ञात्वा तया विसृज्यते, यदि वा यथा पुष्पभूतिराचार्यः सूक्ष्मे ध्याने कुशलः सन् ध्यानवशाद् निश्चलो निरुच्छ्वासोऽतिष्ठन्, तथा तेनापि सूक्ष्मध्यानकुशलेन तथा स्थातव्यं, येन सा मृत इत्यवगम्य विमुञ्चति ।।११६१ ॥ एतेषां प्रयोगाणामभावे
अणुसद्धिं उच्चरती, गति णं मित्त-णायगादीहिं। एवंपि अठायंते, करेंति सुत्तम्मि जं वुत्तं ॥ ११६२ ॥
[बृ.क.भा. ६२९१] तस्या गणिकाया यानि मित्राणि ये च ज्ञातयः, आदिशब्दात्तदन्यस्तथाविधपरिग्रह: तैः स्थविरास्तां गमयन्ति बोधयन्ति। येनाऽनुशिष्टिमुच्चरति,मुत्कलनं करोतीति भावः ।
गाथा ११५७-११६:
अर्थजात प्ररूपणा
५९३ (B)
For Private and Personal Use Only