________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
द्वितीय उद्देशकः
५८९ (B)
करिष्याम' इत्यादि। अथैवमनुशिष्यमाणोऽपि भयेन क्षिप्तचित्तो भूयात् ततस्तस्य भयेन क्षिप्तचित्तस्य सतः चैकित्स्यं चिकित्साकर्म कारयितव्यमिति ॥११५०॥
सूत्रम्- भत्तपाणपडियायक्खियं भिक्खं गिलायमाणं नो कप्पए तस्स गणावच्छेयगस्स निजूहित्तए, अगिलाए करणिजं वेयावडियं जाव रोगातंकातो विप्पमुक्के, ततो पच्छा अहालहुस्सगे नामं ववहारे पट्टवियब्वे सिया ॥ १७॥
अस्थास्य सूत्रस्य कः सम्बन्धः ? उच्यतेपच्छित्तं इत्तिरितो होइ, तवो वण्णितो उ जो एस। आवकहियं पुण तवो, होइ परिण्णा अणसणं तु ॥ ११५१ ॥
[बृ.क.भा. ६२८१] प्रायश्चित्तं प्रायश्चित्तरूपं यदेतत्तपोऽनन्तरसूत्रे वर्णितमेतत्तप इत्वरं भवति, यत्पुनः परिज्ञारूपं तपोऽनशनं तद् यावत्कथिकम्, तत इत्वरतपःप्रतिपादनानन्तरं यावत्कथिकतपःप्रतिपादनार्थमधिकृतं सूत्रम् ॥ ११५१ ॥
सूत्र १६-१७
गाथा ११४७-११५१ सप्रायश्चित्त
भक्तपान प्रत्याख्यातयोः विधिः
५८९ (B)
For Private and Personal Use Only