________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् द्वितीय उद्देशकः ५८९ (A)
साधिकरणसूत्रानन्तरं सप्रायश्चित्तं सूत्रमुक्तमस्य व्याख्या प्राग्वत्। 'सपायच्छित्तं भिक्खुं गिलायमाण'मित्युक्तं तत्र यथा ग्लानिर्भवति तथा प्रतिपादयति
"तप्पढमयाए" इत्यादि, तस्याधिकृतस्य साधोः प्रथमतायां प्रायश्चित्तप्रथमतायां भयेन कथमहमेतत् प्रायश्चित्तं वोक्ष्यामि? इत्येवंरूपेण, यदि वा वहन् तपसा क्लान्तः सन् ग्लानो भवति ॥ ११४९॥
तत्रेयं यतनापायच्छित्ते दिन्ने, भीयस्स विसज्जणा किलंतस्स। अणुसट्ठि वहंतस्स उ, भयेण खित्तस्स तेगिच्छं ॥ ११५० ॥
[बृ.क.भा. ६२८०] प्रायश्चित्ते दत्ते भीतः सन् यदि ग्लायति ततः भीतस्य सतः क्लान्तस्य विसर्जना क्रियते, प्रायश्चित्तं मुत्कलं क्रियते इति भावः। अथ वहन क्लाम्यति ततस्तस्य वहतोऽनुशिष्टिर्दीयते, यथा-'मा भैषीः बहुगतं स्तोकं तिष्ठति, यदि वा वयं साहाय्यं
सूत्र १६-१७
गाथा ११४७-११५१ सप्रायश्चित्त
भक्तपान प्रत्याख्यातयोः
विधि:
५८९ (A)
For Private and Personal Use Only