________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् द्वितीय उद्देशकः ५८६ (B)
X
विसस्स विसमेवेह, ओसहं अग्गिमग्गिणो। मंतस्स पडिमंतो उ, दुजणस्स विवजणा ॥११४२ ॥ [बृ. क.भा. ६२७३]
विषस्यौषधं विषमेव, अन्यथा विषानिवृत्तेः। एवमग्नेर्भूतादिप्रयुक्तस्यौषधमग्निः, मन्त्रस्य प्रतिमन्त्रः, दुर्जनस्यौषधं विवर्जना तद्ग्राम-नगरपरित्यागेन परित्यागः। ततो विद्याद्यभियोगे साधु-साध्वीरक्षणार्थं प्रतिविद्यादि प्रयोक्तव्यमिति ॥११४२॥
जति पुण होज गिलाणो, निरुज्झमाणो ततो से तिगिच्छं। संवरियमसंवरिया, उवालभंते निसिं वसभा ॥ ११४३ ॥
सूत्र १५
गाथा
[बृ.क.भा. ६२७४] | यदि पुनर्विद्याद्यभियोजितस्तदभिमुखं गच्छन् निरुध्यमानो ग्लानो भवति, ततः से || उपसर्गे तस्य साधोः चिकित्सां संवृतां केनाप्यलक्ष्यमाणां कुर्वन्ति। तथा असंवृता यया विद्याद्यभियोजितं तस्या प्रत्यक्षीभूय निशि रात्रौ वृषभाः ताम् उपालभन्ते भेषयन्ति ५८६ (B) पिट्टयन्ति च तावत् यावत् सा मुञ्चतीति ॥११४३॥
X.
११४१-११४६
यतना
For Private and Personal Use Only