________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् द्वितीय उद्देशकः ५८५ (B)
विज्जा मंते चुण्णे, अभिजोइय बोहियादिगहिए वा। अणुसासणा लिहावण, महुराखमकादि व बलेण॥ ११३९॥ विद्यायां मन्त्रे चूर्णे वा अभियोजिते, बोधिकाः स्तेना, आदिशब्दात् म्लेच्छादिपरि- | ग्रहस्तैर्वा गृहीते। यया विद्यादि योजितं तस्याः प्रागुक्तप्रकारेणाऽनुशासना क्रियते। तथाऽप्यतिष्ठन्त्यां प्रतिविद्याप्रयोगतस्तं प्रति विद्वेषणमुत्पाद्यते, तस्याभावे पूर्वप्रकारेण लेखापनं कार्यते, बोधिकादिगृहीते पुनः मथुराक्षपकादिनेव बलेन यथाशक्ति बोधिकादेर्निवारणं कर्तव्यम् ॥ ११३९ ॥
विद्याद्यभियोगमेव भेदतः सम्प्रति प्रतिपादयतिविज्जादऽभियोगो पुण दुविहो माणुस्सितो य दिव्वो य। तं पुण जाणंति कहं ?, जइ नामं गिण्हए तेसिं ॥११४०॥ [बृ.क.भा.६२७१]
विद्यादिभिरभियोगोऽभियुज्यमानता पुनर्द्विविधो द्विप्रकारस्तद्यथा मानुषिको दैवश्च। ५८५ (B) तत्र मनुष्येण कृतो मानुषिको, देवस्यायं तेन कृतत्वादैवः । तत्र देवकृतो विद्यादिभिरभियोग ||
सूत्र १४,
गाथा
|११३५-११४०
उपसर्गे सामाचारी
For Private and Personal Use Only