________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् द्वितीय उद्देशकः ५८५ (A)
विजाए मंतेण व, चुण्णेण व जोइतो अणप्पवसो। अणुसासणा लिहावण, खमए महुरा तिरिक्खाय। ११३८ ॥
[बृ.क.भा. ६२७०] विद्यया वा मन्त्रेण वा चूर्णेन वा योजितः सम्बन्धितः सन् कश्चिदनात्मवशो भूयात्। तत्र अनुशासना इति यया रूपलुब्धया विद्यादि प्रयोजितं तस्या अनुशासना क्रियते। यथा-तपस्वी एषः, न वर्तते तव तं प्रतीदृशं कर्तुम, एवं करणे हि प्रभूतपापोपचयसम्भव इत्यादि। अथैवमनुशासिताऽपि न निवर्तते तर्हि तस्यास्तं प्रति प्रतिविद्यया विद्वेषणमुत्पाद्यते। अथ सा नास्ति तादृशी प्रतिविद्या, तर्हि लिहावणत्ति तस्याः सागारिकं विद्याप्रयोगतस्तस्य पुरत आलेखाप्यते, येन स तद् दृष्ट्वा तस्याः सागारिकमिदमतिबीभत्समिति जानानो विरागमुपपद्यते। एष मानुषिक उपसर्गः। खमगे महुरा इति मथुरायां श्रमणीप्रभृतीनां मानुष उपसर्गोऽभूत्। तं क्षपको निवारितवान्। एषोपि मानुष उपसर्गः। तैरश्चमाह-तिरिक्खाय इति तिर्यञ्चो ग्रामेयका आरण्यका वा श्रमणादीनामुपसर्गान् कुर्वन्ति । ते यथाशक्ति निराकर्तव्याः ॥ ११३८ । साम्प्रतमेनामेव गाथां विवरीषुराह
सूत्र १४,
गाथा ११३५-११४०
उपसर्गे सामाचारी
५८५ (A)
For Private and Personal Use Only