________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1.
श्री व्यवहार
सूत्रम्
द्वितीय उद्देशकः ५८४ (B)
मोहेन मोहनीयोदयेन वेदोदयेनेत्यर्थः, पित्ततो वा पित्तोदये उन्मत्तः स आत्मासञ्चेतकः आत्मनैवाऽऽत्मनो दु:खोत्पादक: समाख्यातः। यच्चाऽऽत्मनैवात्मनो दुःखोत्पादनमेष आत्मसञ्चेतनीय उपसर्गः, ततः पूर्वमात्मसञ्चेतनीय उपसर्ग उक्तः। तत उपसर्गाधिकारादयमन्यः परसमुत्थ उपसर्गोऽनेन प्रतिपाद्यते इति ॥११३६ ॥
अनेन सम्बन्धेनायातस्यास्य व्याख्या, सा च प्राग्वत्। तत्रोपसर्गप्रतिपादनार्थमाहतिविहो य उवस्सग्गो, दिव्वोर माणुस्सितोर तिरिच्छो३ य। दिव्यो उ पुव्वभणितो, माणुसतिरिए अतो वोच्छं ॥ ११३७ ॥
[बृ.क.भा. ६२६९] त्रिविधः खलु परसमुत्थ उपसर्गः। तद्यथा-दैवो मानुषिकस्तैरश्चश्च। तत्र दैवो | देवकृतः पूर्वम् अनन्तरसूत्रस्याधस्ताद्भणितः । अतो मानुषं तैरश्चं च वक्ष्ये ॥११३७॥
प्रतिज्ञातमेव निर्वाहयति
सूत्र १४,
गाथा ११३५-११४०
उपसर्गे सामाचारी
५८४ (B)
For Private and Personal Use Only