________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
द्वितीय
उद्देशकः
५८३ (B)
܀܀܀܀܀
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
च सती तस्य अधिकृतस्य तां दृष्ट्वा उन्मादप्राप्तस्य पुरत उन्मड्यते यत्तस्या मण्डनं तत्सर्वमपनीयते । ततो विरूपरूपदर्शनतस्तस्य विरागो भवति । अथ सा स्वभावतोऽपि रूपवती अतिशायिनोद्भटेन रूपेण युक्ता ततस्तस्यास्तद्भक्तं मदनफलमिश्रादि दीयते, येन तस्य पुरतश्छर्दयति उद्वमयति, उद्वमनं च कुर्वती सा किल जुगुप्सनीया भवति, ततः स तां दृष्ट्वा विरज्यते इति ॥ ११३३ ।।
गुज्झंगम्मिय वियडं, पज्जावेऊण खरियमादीणं ।
तद्दायणे विरागो, होज्ज जहाऽऽसाढभूतिस्स ॥ ११३४ ॥
[बृ.क.भा. ६२६७] यदि पुनः कस्यापि गुह्याङ्गविषय उन्मादो भवति, न रूपलावण्याद्यपेक्ष्यः, ततः क्षरिकादिनां द्व्यक्षरिकादीनां विकटं मद्यं पाययित्वा प्रसुप्तीकृतानां प्रभूतमद्योगालखरण्टितसर्वशरीराणाम्, अत एव मक्षिकाभिर्भिणिभिणायमानानां तद्दायणित्ति तस्य गुह्याङ्गस्य मद्योगालनादिना बीभत्सीभूतस्य दर्शना क्रियते । ततो भवति तद्दर्शनानन्तरं कस्यापि महात्मनो विरागः । यथा आषाढभूतेः क्षुल्लकस्य ॥११३४ ॥
For Private and Personal Use Only
सूत्र १३
गाथा ११३०-११३४ उन्माद प्ररूप्रणा
५८३ (B)