________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् द्वितीय उद्देशकः ५८२ (B)
वा द्रष्टव्यं, द्वाभ्यामप्यात्मनो विपर्यासापादानात् तेनोत्तरत्रोच्यमानम् "अहव पित्तमुच्छाए" इत्यादि न विरोधभाक। इमोत्ति अयमनन्तरमेव वक्ष्यमाणतया प्रत्यक्षीभूत इव। तमेवेदानीं वक्ष्यामि ॥११३० ॥ प्रतिज्ञातमेव निर्वाहयति
रूवंगिं दट्ठणं, उम्मादो अहव पित्तमुच्छाए। कह रूवं दट्टणं, हवेज उम्मायपत्तो उ? ॥ ११३१ ॥
रूपेणातिशायिना युक्तमङ्गं शरीरं यस्याः सा रूपाङ्गी, तां दृष्ट्वा कस्याप्युन्मादो भवेत्, कोऽप्युन्मादभाग् भूयादिति भावः। अथवा पित्तमूर्च्छया पित्तोद्रेकेण उपलक्षणमेतत्, वातोद्रेकवशतो वा स्याद् उन्मादः । पर आह-कथं रूपं दृष्ट्वा भवेदुन्मादप्राप्तः ? ॥ ११३१ ॥
सूरिराहदट्ठण नडिं कोई, उत्तरवेउव्वियं मयणमत्तो। तेणेव य रूपेण उ, उडुमि कयम्मि निविण्णो ॥ ११३२ ॥
[बृ.क.भा. ६२६५]
सूत्र १३
गाथा ११३०-११३४
उन्माद प्ररूप्रणा
५८२ (B)
For Private and Personal Use Only