________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् द्वितीय उद्देशकः
५८२ (A)
आह-भूतचिकित्सा भूतोच्चाटिनी चिकित्सा भूतचिकित्सा॥ ११२९ ॥ यक्षाविष्टः किलोन्मादं प्राप्नोति ततो यक्षाविष्टसूत्रानन्तरमुन्मादप्राप्तसूत्रमाह
सूत्रम्- उम्मायपत्तं भिक्खं गिलायमाणं नो कप्पए तस्स गणावच्छेदियस्स |* निजूहित्तए, अगिलाए तस्स करणिजं वेयावडियं जाव ततो रोगायंकातो विप्पमुक्को, ततो पच्छा अहालहुस्सगे नामं ववहारे पट्टवियब्वे सिया इति ॥ १२॥
अस्य व्याख्या पूर्ववत्॥ साम्प्रतमुन्मादप्ररूपणार्थं भाष्यकारः प्राहउम्मातो खलु दुविहो, जक्खावेसो य मोहणिज्जो य। जक्खावेसो उत्तो, मोहेण इमो उ वोच्छामि ॥११३० ॥[बृ.क.भा. ६२६३]
उन्मादः खलु निश्चितं द्विविधो द्विप्रकारः। तद्यथा-यक्षावेशहेतुको यक्षावेशः, कार्ये कारणोपचारात् १। एवं मोहनीयकर्मोदयहेतुको मोहनीय: २,चशब्दौ परस्परसमुच्चयार्थी स्वगतानेकभेदसंसूचकौ वा, तत्र यो यक्षावेशो यक्षावेशहेतुकश्च सोऽनन्तरसूत्रे उक्तः। यस्तु मोहेन मोहनीयोदयेन, मोहनीयं नाम येनाऽऽत्मा मुह्यति। तच्च ज्ञानावरणं मोहनीयं
सूत्र १३
गाथा ११३०-११३४
उन्माद
प्ररूप्रणा
५८२ (A)
For Private and Personal Use Only