________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् द्वितीय उद्देशकः ५७९ (A)
एव व्रतार्थं तत्समक्षमुपस्थापनीयाः, येन तस्यापभ्राजनोपजायते। ततः पश्चाच्छकुनादिवैगुण्यमुद्भाव्य ते मुच्यन्ते, यदि न स्यात् तात्त्विकी व्रतश्रद्धेति ॥ ११२१ ॥ 'वायं काऊण वे'त्यत्र यतनामाहचरगादि पण्णवेळ, पुव्वं तस्स पुरतो जिणावेंति। ओमतरागेण ततो, पगुणत्ति ओभामितो एवं ॥ ११२२ ॥ चरकादिकं प्रचण्डं परवादिनमधि:कृतसाधोर्वादेनासाध्यं पूर्वं प्रज्ञाप्य [तस्य] | प्ररूपितस्याधिकृतस्य वादाभिमानिनः साधोः पुरतः अवमतरेण हीनतरेण तं चरकादिकं जापयन्ति वरवृषभाः ततः स एवमपभ्राजितः सन् प्रगुणायते प्रगुणो भवति॥ ११२२ ॥
सूत्रम्- जक्खाविलृ भिक्खं गिलायमाणं नो कप्पइ तस्स गणावच्छेदियस्स निहित्तए अगिलाए तस्स करणिज्जं वेयावडियं, जाव ततो रोगातंकातो विप्पमुक्के, ततो पच्छा तस्स अहालहुस्सगे नामं ववहारे पट्टवियव्वे सिया इति ॥ ११॥ १. व्रत सिद्धेति - पु. प्रे. ॥
गाथा | ११२०-११२४
जक्षाविष्टे विधिः
५७९ (A)
For Private and Personal Use Only