________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् द्वितीय उद्देशकः ५७७ (A)
अधुना दुर्जयान् शत्रून् जित्वेत्येतद्योजयति-वायं काऊण वत्ति वादं वा परप्रवादिना दुर्जयेन सह कृत्वा तं पराजित्यातिहर्षवशतः दीप्तः दीप्तचित्तो भवति ॥ १११५ ॥ साम्प्रतमेनामेव गाथां विनेयजनानुग्रहाय विवरिषुराह
पुंडरियमाइयं खलु, अज्झयणं कड्डिऊण दिवसेण। हरिसेण दित्तचित्तो, एवं होजा हि कोई उ ॥ १११६ ॥
कश्चित्पौण्डरीकादिकमध्ययनं खलु दिवसेन, उपलक्षणमेतत्, पौरुष्यादिना वा | कर्षित्वा पठित्वा हर्षेण दीप्तचित्तो भवेत्। एवमध्ययनलाभेन दीप्तचित्तता ॥ १११६ ॥
दुल्लहदव्वे देसे, पंडिसेविय तं अलद्धपुव्वं वा। आहारोवहि वसही, अहुणविवाहो व कप्पट्ठो ॥ १११७ ॥
दुर्लभद्रव्ये देशे तद् दुर्लभद्रव्यं केनाप्यलब्धपूर्व, वाशब्दः समुच्चये, प्रतिसेव्य लब्ध्वा दीप्तचित्तो भवति। एवमाहारे भक्त-क्षीरादिके उपधौ कम्बलरत्नादिके वसतौ | १. पडिसेधिय - जेभा. वाभा. कल्पभाष्ये कल्पवृत्तौ च ॥
गाथा १११३-१११९ लोकोत्तरिक दीप्तचित्तः
५७७ (A)
For Private and Personal Use Only