________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् द्वितीय उद्देशकः ५७६ (B)
विनयकारी' इति मारितः। ततो[दुष्ठ] दुष्टं कृतं मयेति प्रभूतं विसूरितवान् । स्वस्थीभूते तस्मिन् जाते सङ्केतितपुरुषैरमात्यस्य दर्शनं कारितम्। सद्भावकथनानन्तरं राज्ञा तस्मै विपुला भोगाः प्रदत्ता इति ॥ १११४॥ उक्तो लौकिको दीप्तचित्तः। लोकोत्तरिकमाह
महज्झयण-भत्त-खीरे, कंबलग-पडिग्गहे फलग-सङ्के। पासाए कप्पटे, वायं काऊण वा दित्तो ॥ १११५ ॥ [बृ.क.भा. ६२५०]
महाध्ययनं पौण्डरीकादिकं दिवसेन पौरुष्या वा समागतम्। अथवा भक्तमुत्कृष्टं लब्ध्वा नास्मिन् क्षेत्रे भक्तमीदृशं केनापि लब्धपूर्वम्, यदि वा क्षीरं चातुर्जातकसम्मिश्रमवाप्य नैतादृशमुत्कृष्टं क्षीरं केनापि लभ्यते। यदि वा कम्बलरत्नमतीवोत्कृष्टम् अथवा विशिष्टवर्णादिगुणोपेतमपलक्षणहीनं पतद्ग्रहम, फलगत्ति यद्वा फलकं चम्पकपट्टादिकम् , अथवा श्राद्धमीश्वरमत्युदारमुपासकत्वेन प्रतिपन्नं लब्ध्वा, यदि वा प्रासादे सर्वोत्कृष्टे उपाश्रयत्वेन लब्धे, कप्पटे वा इति ईश्वरपुत्रे रूपवति प्रज्ञानिधाने लब्धे प्रमोदते, प्रमोदभरवशाच्च दीप्तचित्तो भवति। एतेन 'लाभमदेन वा मत्त' इति लोकोत्तरे योजितम्। १. ग्गहे य फलगे य - कल्पभाष्ये ।
गाथा १११३-१११९ लोकोत्तरिक दीप्तचित्तः
५७६ (B)
For Private and Personal Use Only