________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
द्वितीय उद्देशकः ५७५ (B)
सुतस्य जन्म मथुरयोः पातनं निधेभिस्य च युगपन्निवेदनायां स हर्षवशाद् दीप्तो दीप्तचित्तोऽभवत्। दीप्तचित्ततया च इमानि वक्ष्यमाणानि प्रलपन् शयनीय-स्तम्भकुड्यानि कुट्टयति ॥ १११०॥ तत्र यानि प्रलपति तान्याह
सच्चं भण गोयावरि!, पुव्वसमुद्देण साहिया संती। सालाहणकुलसरिसं, जति ते कूले कुलं अत्थि ॥ ११११॥ उत्तरतो हिमवंतो, दाहिणतो सालवाहणो राया। समभारभरक्कंता, तेण न पलत्थए पुढवी ॥ १११२॥ [बृ.क.भा.६२४६-७]
हे गोदावरि पूर्वसमुद्रेण साधिता कृतमर्यादा सती सत्यं भण-ब्रूहि यदि तव कूले सातवाहनकुलसदृशं कुलमस्ति । उत्तरत उत्तरस्यां दिशि हिमवान् गिरिः दक्षिणतः सालिवाहनो राजा, तेन समभारभराक्रान्ता सती पृथिवी न पर्यस्यति। अन्यथा यद्यहं | दक्षिणतो न स्यां ततो हिमवगिरिभाराक्रान्ता नियमतः पर्यस्येत् ॥ ११११-१२ ॥ १. साविया - कल्पभाष्ये । २. सेविता - वा. मो. पु. । "शापिता' दत्तशपथा सती" इति कल्पवृत्तौ ॥
गाथा |११०७-१११२
दीप्तचित्ते सातवाहन दृष्टान्तम्
५७५ (B)
For Private and Personal Use Only