________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
द्वितीय उद्देशकः ५७४ (A)
अथ कथमेष दीप्तचित्तो भवति इति तत्कारणप्रतिपादनार्थमाहइति एस असम्माणो, खित्तो सम्माणतो उ हवति दित्तो। अग्गी व इंधणेहिं, दिप्पइ चित्तं इमेहिं तु ॥ ११०७ ॥ [बृ.क.भा.६२४२] |* इति प्रागुक्तेन प्रकारेण एषः क्षिप्तः क्षिप्तचित्तोऽसम्मानतः अपमानतो भवति। दीप्तः दीप्तचित्तः पुनः सम्मानतः विशिष्टसन्मानावाप्तितो भवति। दीप्तचित्तो नाम-यस्य दीप्तं चित्तम्, तच्च चित्तं दीप्यते अग्निरिवेन्धनैः एभिर्वक्ष्यमाणैर्लाभमदादिभिः ॥११०७॥ तानेवाह
लाभमदेण व मत्तो, अहवा जेऊण दुजए सत्तू। दित्तम्मि सातवाहणो,तमहं वोच्छं समासेणं ॥११०८ ॥ [बृ.क.भा. ६२४३] |
लाभमदेन वा मत्तः सन् दीप्तचित्तो भवति। अथवा दुर्जयान् शत्रून् जित्वा । उभयस्मिन्नपि दीप्ते दीप्तचित्ते लौकिको दृष्टान्तः शातवाहनो राजा। तमहं शातवाहनदृष्टान्तं समासेन वक्ष्ये ॥ ११०८॥ यथाप्रतिज्ञातमेव करोति
गाथा ११०७-१११२ दीप्तचित्ते सातवाहन दृष्टान्तम्
५७४ (A)
For Private and Personal Use Only