________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् द्वितीय उद्देशकः ५७३ (B)
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
सूत्रम्- "दित्तचित्तं भिक्खं गिलायमाणं नो कप्पइ तस्स गणावच्छेदियस्स निजूहित्तए, अगिलाए तस्स करणिजं वेयावडियं जाव ततो रोगातंकातो विप्पमुक्को, ततो पच्छा तस्स अहालहुस्सगे नामं ववहारे पट्टवियव्वे सिया " इति ॥ १० ॥
अस्य व्याख्या सक्षेपतः प्राग्वत्। सम्प्रति भाष्यकारो विस्तरमभिधित्सुराहएसेव गमो नियमा, दित्तादीणं पि होति नायव्वो। जो होइ दित्तचित्तो, सो पलवइ अनिच्छियव्वाइं ॥ ११०६ ॥
[बृ.क.भा.६२४१] एष एव अनन्तरक्षिप्तचित्तसूत्रगत एव गमः प्रकारो लौकिक-लोकोत्तरिकभेदादिरूपो दीप्तानामपि दीप्तचित्तप्रभृतीनामपि नियमाद् वेदितव्यः। यत् पुनर्नानात्वं तदभिधातव्यम्। तदेवाधिकृतसूत्रेऽभिधित्सुराह- जो होइ इत्यादि, यो भवति दीप्तचित्तः सोऽनीप्सितव्यानि बहूनि प्रलपति, बह्वनीप्सितप्रलपनं तस्य लक्षणम्, क्षिप्तचित्तस्त्वपहतचित्ततया मौनेनाप्यवतिष्ठते इति परस्परं सूत्रयोर्विशेष इति भावः ॥ ११०६॥
सूत्र ११,
गाथा १०९८-११०६ दीप्तचित्ते सामाचारी
५७३ (B)
For Private and Personal Use Only