________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् द्वितीय उद्देशकः ५७० (A)
न य बंधहेउविगलत्तणेण, कम्मस्स उवचओ होइ। लोगो वि एत्थ सक्खी, जह एस परव्वसो कासी ॥ १०९२ ॥
[बृ.क.भा. ६२२६-६२२७] काममित्यनुमतौ, अनुमतमेतत्। यथा- स आश्रवद्वारेषु चिरकालं वर्तितः बहुविधं च तेन प्रलपितम्, लोकविरुद्धानि लोकोत्तरिकानि च लोकोत्तरविरुद्धानि च पदानि | आचीर्णानि प्रतिसेवितानि ॥१०९१ ।।
तथापि न च नैव तस्य क्षिप्तचित्तस्य बन्धहेतुविकलत्वेन बन्धहेतवः रागद्वेषादयस्तद्विकलत्वेन तद्रहितत्वेन कर्मण उपचयो भवति, कर्मोपचयस्य रागद्वेषा-धीनत्वात् , तस्य च रागद्वेषविकलत्वात्, न च तद्रागद्वेषविकलत्वं वचनमात्रसिद्धम् , यतो लोकोऽपि अत्र अस्मिन् विषये साक्षी यथा एषः सर्वं परवशोऽकार्षीदिति। ततो रागद्वेषाभावान्न कर्मोपचयः, तस्य तदनुगतत्वात् ॥१०९२॥ तथा चाऽऽह
राग-दोसाणुगया, जीवा कम्मस्स बंधगा होति। रागादिविसेसेण य बंधविसेसो य अविगीतो ॥ १०९३ ॥
[बृ.क.भा. ६२२८]
गाथा |१०९२-१०९७
क्षिप्तचित्ते कर्मबन्धाभावः
५७० (A)
For Private and Personal Use Only