________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम् द्वितीय उद्देशकः ५७० (B)
राग-द्वेषाभ्यामनुगताः सम्बद्धाः राग-द्वेषानुगताः सन्तो जीवाः कर्मणो बन्धका भवन्ति। ततो रागद्वेषविशेषेण राग-द्वेषतारतम्येन बन्धविशेषो, बन्धतरतमभावः अविगीतः अविप्रतिपन्नः। ततः क्षिप्तचित्तस्य राग-द्वेषाभावतः कर्मोपचयाभावः ॥१०९३॥ अमुमेवार्थं दृष्टान्तेन द्रढयति
कुणमाणी वि य चिट्ठा, परतंता णट्टिया बहुविहा उ। किरियाफलेण जुज्जइ, न जहा एमेव एयं पि ॥ १०९४॥
[बृ.क.भा. ६२२९]
गाथा यथा नर्तकी यन्त्रनर्तकी काष्ठमयी परतन्त्रा परायत्ता, परप्रयोगत इत्यर्थः। बहुविधा :
|१०९२-१०९७ | बहुप्रकारा अपि, तुशब्दोऽपिशब्दार्थः, चेष्टाः कुर्वाणा क्रियाफलेन कर्मणा न युज्यते।। क्षिप्तचित्ते
कर्मबन्धाभावः एवमेव अनेनैव प्रकारेण एव(न)मपि क्षिप्तचित्तमनेका अपि विरुद्धाः क्रियाः कुर्वाणं न : कर्मोपचयं पश्यतेति ॥१०९४॥
५७० (B)
१. कुर्वाण: न क' मु. ॥ टि. यन्त्रनर्तकी जेभा. टि. ॥
For Private and Personal Use Only