________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
द्वितीय
उद्देशः
५६४ (A)
www.kobatirth.org
स्तेनयेत् चोरयेत्। अथवा स स्वयं केनापि ह्रियेत अनेन स्तैन्यं व्याख्यातम् । मारणं पिट्टनमुभयस्मिन् स्यात् । किमुक्तं भवति ? स क्षिप्तचित्तत्वेन परवश इव स्वयमात्मानं मारयेत् पिट्टयेद् वा यदि वा परं मारयेत् पिट्टयेद् वा, स परेण मार्येत, पिट्येत वा इति । तद्दोसा जं च सेसाणमिति, तस्य क्षिप्तचित्तस्य दोषाद् यच्च शेषाणां साधूनां मारणं पिट्टनं वा । तथाहि स क्षिप्तचित्तः सन् परान् यदा व्यापादयति पिट्टयति वा तदा परे स्वरूपमजानानाः शेषसाधूनामपि घातप्रहारादिकं कुर्युः, तन्निमित्तमपि प्रायश्चित्तमरक्षणे द्रष्टव्यम्। शेषाणि तु स्थानानि सुगमानीति न व्याख्यानयति ॥१०७६ ॥ यदुक्तं 'तस्माद्रक्षन्ति यतनया' [गा. १०७५] इति तत्र यतनामाह -
महिड्डी उट्ठनिवेसणा य२, आहार३ विगिंचणा ४ विउस्सग्गो५ । रक्खताण य फिडिए, अगवेसणे होंति चउगुरुगा ॥ १०७७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
[बृ.क.भा.६२१२]
महर्द्धिको नाम ग्रामस्य नगरस्य वा रक्षाकारी तस्य कथनीयम् १ | तथा उट्ठनिवेसणा
For Private and Personal Use Only
गाथा १०७७-१०८१ क्षिप्तचित्ते
यतना
५६४ (A)