________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् द्वितीय उद्देशकः ५६४ (B)
इति मृदुबन्धैस्तथा संयमनीयो यथा स्वयमुत्थानं निवेशनं च कर्तुमीशो भवति २। तथा यदि वातादिना धातुक्षोभोऽस्याभूदिति ज्ञायते तदा अपथ्याहारपरिहारेण स्निग्धमधुरादिरूप आहारः प्रदातव्यः३। विगिंचणत्ति उच्चारादेस्तस्य परिष्ठापनं कर्तव्यम् ४। यदि पुनर्देवताकृत एष उपद्रव इति ज्ञायते तदा प्रासुकैषणीयेन क्रिया कार्या। तथा विउस्सग्गो इति 'किमयं वातादिना क्षोभः? उत देवताकृत उपद्रवः?" इति परिज्ञानाय देवताराधनार्थं कायोत्सर्गः करणीयः ५। ततस्तया आकम्पितया कथिते सति तदनुरूपो यत्नो यथोक्तस्वरूपः करणीयः। एवं रक्षतामपि यदि स कथञ्चित् स्फिटितः स्यात् ततस्तस्य गवेषणं कर्तव्यम, अन्यथा अगवेषणे प्रायश्चित्तं चत्वारो गुरुकाः ६। एष द्वारगाथासक्षेपार्थः ॥ १०७७॥ साम्प्रतमेनामेव गाथां विवरीषुः प्रथमतो महर्द्धिकद्वारं | विवृणोति__ अम्हं एत्थ पिसातो, रक्खंताणंपि फिट्टइ कयाई। सो हु परिरक्खेयव्वो, महड्डिए रक्खिए कहणा ॥ १०७८ ॥
[बृ.क.भा. ६२१३]
गाथा १०७७-१०८१ क्षिप्तचित्ते यतना
५६४ (B)
१. कर्तुं समर्थो भ° पु. प्रे. ॥
For Private and Personal Use Only