________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
द्वितीय उद्देशकः
५६१ (A)
ते यस्य सन्ति श्रमणगुणमुक्तयोगी, संसारप्रवर्धको भणितस्तीर्थकरगणधरैः। ततो यः संयमदुर्बलो विहृतवान् स शोच्य एव भवदीयस्तु भ्राता यदि कालगतो दृढचारित्रे, ततः स परलोकेऽपि सुगतिभागिति न करणीयः शोकः ॥१०६८ ॥ सम्प्रति 'जड्डाइ तिरिक्ख' [गा.१०६३] इत्यस्य व्याख्यानार्थमाह
जड्डाई तेरिच्छे, सत्थे अगणीय थणिय विजू य। ओमे पडिभीसणया, चरगं पुव्वं परूवेउं ॥ १०६९॥[बृ.क.भा. ६२०४]
जड्डः हस्ती आदिशब्दात् सिंहादिपरिग्रहः तान् तिरश्चो दृष्ट्वा । किमुक्तं भवति?- गजं वा मदोन्मत्तं सिंह वा गुञ्जन्तं व्याघ्रं वा तीक्ष्ण-खर-नखरविकरालमुखं दृष्ट्वा कोऽपि भयतः क्षिप्तचित्तो भवति। कोऽपि पुनः शस्त्राणि खड्गादीन्यायुधानि दृष्ट्वा । इयमत्र भावनाकेनापि परिहासेनोद्गीर्णं खड्गं वा कुन्तं वा क्षुरिकादिकं वा दृष्ट्वा कोऽपि 'हा! मारयति मामेषः' इति सहसा क्षिप्तचित्त उपजायते। तथा अग्नौ प्रदीपनके च लग्ने कोऽपि भयतः क्षिप्तो भवति। कोऽपि स्तनितं मेघगर्जितमाकर्ण्य कोऽपि विद्युतं दृष्ट्वा । एवं क्षिप्तचित्तस्य जातस्य ओमे पडिभीसणया इति अवमः लघुतरः तेन प्रतिभीषणं हस्त्यादेः कर्तव्यं येन क्षिप्तचित्तताऽपगच्छति। यदि पुनश्चरकेण वादे पराजितः इति
गाथा १०६६-१०७१ क्षिप्तचित्ततायाः
कारणानि
५६१ (A)
For Private and Personal Use Only