________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.
श्री व्यवहार
सूत्रम् द्वितीय उद्देशकः ५६१ (B)
क्षिप्तचित्तो भवेत् ततश्चरकं पर्वं प्ररूप्य प्रज्ञाप्य तदनन्तरं तेन स्वमुखोच्चारितेन वचसा तस्य क्षिप्तचित्ततोत्तारयितव्या ॥१०६९ ॥ सम्प्रत्यपमानतः क्षिप्तचित्ततां भावयति
अवहीरितो व गणिणा, अहव ण सगणेण कम्हिइ पमाए। वायम्मि व चरगादी, पराजितो तत्थिमा जयणा ॥१०७० ॥
[बृ.क.भा. ६२०५] गणिना आचार्येण सोऽवधीरितः स्यात्। अथवा णमिति वाक्यालङ्कारे, स्वगणेन स्वगच्छेन गणावच्छेद्यादिना कस्मिंश्चित् प्रमादे वर्तमानः सन् गाढं शिक्षितो भवेत्, ततोऽपमानेन क्षिप्तचित्तो जायेत । यदि वा चरकादिना परतीर्थिकेन वादे पराजित इत्यपमानतः क्षिप्तचित्तः स्यात्। तत्र तस्मिन् क्षिप्तचित्ते इयं वक्ष्यमाणा यतना॥ १०७० ॥ तत्र प्रथमतो भयेन क्षिप्तचित्ते यतनामाह
कण्णम्मि एस सीहो, गहितो अह धाडितो य सो हत्थी। खुड्डुलतरगेण तुमे, ते वि य गमिया पुरा पाला ॥ १०७१ ॥
[बृ.क.भा. ६२०६]
गाथा |१०६६-१०७१ क्षिप्तचित्ततायाः
कारणानि
५६१ (B)
For Private and Personal Use Only