________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार-|
सूत्रम् द्वितीय उद्देशकः ५६० (A)
तमेवाऽऽह|
तेलोक्कदेवमहिया, तित्थयरा नीरया गया सिद्धिं। थेरा वि गया केई, चरणगुणपहावगा धीरा ॥ १०६६ ॥
[बृ.क.भा. ६२००] तस्य भ्रात्रादिमरणं श्रुत्वा क्षिप्तचित्तीभूतस्याऽऽश्वासनार्थमियं देशना कर्त्तव्या। यथामरणपर्यवसानो जीवलोकः, तथाहि ये तीर्थकरा भगवन्तस्त्रैलोक्यदेवैः त्रिभुवननिवासिभिर्भवनपत्यादिभिर्देवैर्महितास्तेऽपि नीरजसः विगतसमस्तकर्मपरमाणवः सन्तो गताः सिद्धिम। तथा स्थविरा अपि केचिद महीयांसो गौतमस्वामिप्रभृतयश्चरणगुणप्रभावकाः चरणं चरित्रं गुणः ज्ञानं ताभ्यां जिनशासनस्य प्रभावकाश्चरणगुणप्रभावकाः धीराः महासत्त्वा देव-दानवैरप्यक्षोभ्याः सिद्धिं गताः। तद्यदि भगवतामपि तीर्थकृतां महतामपि महर्षीणामीदृशा गतिस्तत्र का कथा शेषजन्तूनां तस्मादेतादृशीं संसारस्थितिमनुविचिन्त्य न शोकः कर्तव्य इति ॥ १०६६ ॥ अन्यच्च
गाथा १०६६-१०७१ क्षिप्तचित्ततायाः
कारणानि
५६० (A)
For Private and Personal Use Only