________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम् द्वितीय उद्देशकः ५५९ (B)
जियसत्तुनरवइस्सा, पव्वज्जा सिक्खणा विदेसम्मि। काऊण पोयणम्मी, सव्वायं निव्वुतो भयवं ॥ १०६४ ॥ एक्को य तस्स भाया, रज्जसिरिं पयहिऊण पव्वइतो। भाउग अणुरागेणं, खित्तो जातो इमो उ विही ॥ १०६५ ॥
[.क.भा. ६१९८-९९] जितशत्रुर्नाम नरपतिः, तस्य प्रव्रज्या अभवत्। धर्मं तथाविधानां स्थविराणामन्तिके श्रुत्वा प्रव्रज्यां स प्रतिपन्नवानित्यर्थः। प्रव्रज्यानन्तरं च तस्य शिक्षणा ग्रहणशिक्षा आसेवनाशिक्षा च प्रवृत्ता। कालान्तरे च पोतनपुरे विदेशरूपे परतीर्थिभिः सह वाद उपस्थितः । ततस्तैः सह शोभनो वाद: सद्वादस्तं दत्त्वा महतीं जिनशासनप्रभावनां कृत्वा स भगवान् निर्वृतः मुक्तिपदवीमधिरुढः ॥ १०६४॥ एक्को य इत्यादि। एकश्च तस्य भ्राता जितशत्रो राज्ञः प्रव्रजितस्यानुरागेण राज्यश्रियं प्रहाय परित्यज्य जितशत्रुप्रव्रज्याप्रतिपत्त्यनन्तरं कियता कालेन प्रव्रजितः प्रव्रज्यां प्रतिपन्नः। स च तं ज्येष्ठभ्रातरं विदेशे | पोतनपुरे कालगतं श्रुत्वा भ्रात्रनुरागेण क्षिप्तः अपहृतचित्तो जातः। तत्र चायं वक्ष्यमाणस्तत्प्रगुणीकरणाय विधिः ॥१०६५ ॥
गाथा |१०६०-१०६५ क्षिप्तचित्तवैयावृत्त्यम्
| ५५९ (B)
For Private and Personal Use Only