________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
.
व्यवहार
सूत्रम् द्वितीय उद्देशकः ५५९ (A)
परिगृहीतो भयेन क्षिप्तचित्तो भवति, स च प्रतीत एव। भयेनोदाहरणमुक्तम्। सम्प्रत्यपमानत आह- प्रभुणा वा नरेन्द्रेण धनहरणेन समस्तद्रव्यापहरणतः विमानित: अपमानितः क्षिप्तो भवति । एवमादिकानि लौकिकान्युदाहरणानि क्षिप्ते क्षिप्तचित्तविषयाणि ॥१०६२॥
सम्प्रति लोकोत्तरिकान्यभिधित्सुराहरागम्मि रायखुड्डो, जड्डादि तिरिक्ख चरियवायम्मि। रागेण जहा खित्तो, तमहं वोच्छं समासेण ॥ १०६३ ॥
[बृ.क.भा. ६१९७] रागे सप्तमी तृतीयार्थे, रागेण क्षिप्तचित्तो यथा राजक्षुल्लकः राजपुत्रः क्षुल्लको राजक्षुल्लक: शाकपार्थिवादिदर्शनाद् मध्यपदलोपी समासः । भयेन यथा जड्डादीन् हस्तिप्रभृतीन् तिरश्चो दृष्ट्वा। अपमानतो यथा चरकेण सह वादे पराजितः । तत्र रागेण यथा राजक्षुल्लको यः क्षिप्तचित्तोऽभवत्तमहं तथा समासेन वक्ष्ये ॥१०६३॥ यथाप्रतिज्ञातं करोति
गाथा १०६०-१०६५ क्षिप्तचित्तवैयावृत्त्यम्
५५९ (A)
For Private and Personal Use Only