________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् द्वितीय उद्देशकः ५५८ (B)
रागेण वा यदि वा भयेन अथवा नरेन्द्रेण प्रजापतिना, उपलक्षणमेतत्, सामान्येन वा प्रभुणा अपमानितः अपमानं ग्राहितः, एतैः खलु कारणैः क्षिप्तचित्तो भवति। ते च लोके उदाहरणत्वेन प्ररूपिता वणिगादयः। तत्र रागेण क्षिप्तचित्तो यथा वणिग्भार्या। तथाहि-काचिद्वणिग्भार्या भर्तारं मृतं श्रुत्वा क्षिप्तचित्ता जाता ॥ १०६१ ॥ भयेनापमानेन च क्षिप्तचित्तत्वे उदाहरणान्याह
भयतो सोमिलबडुओ, सहसोत्थरितो व संजुयादीसु। धणहरणेण पहूण व, विमाणितो लोइया खित्ते ॥ १०६२ ॥
[बृ.क.भा. ६१९६] भयतः भयेन क्षिप्तचित्तो यथा गजसुकुमालमारको जनार्दनभयेन सोमिलनामा बटुकः ब्राह्मणः। अथवा संयुगादिषु संयुगं संग्रामस्तत्र, आदिशब्दात् परबलधाटीसमापतनादिपरिग्रहः, तैर्गाथायां सप्तमी तृतीयार्थे। सहसा अतर्कितः अवस्तृतः समन्ततः
गाथा १०६०-१०६५ क्षिप्तचित्तवैयावृत्त्यम्
५५८ (B)
For Private and Personal Use Only