________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् द्वितीय उद्देशकः ५५८ (A)
अपहृतचित्त इत्यर्थः। अथवा ग्लान्यं प्रकृतम्, क्षिप्तचित्तोऽपि ग्लानकल्पः, ततस्तस्यापि अगिलया यथोक्तस्वरूपया कर्तव्यम्। इति तत्प्रतिपादनार्थमेष सूत्रोपनिपातः, इत्ययं पूर्वसूत्रेण सहास्य सम्बन्धः ॥१०५९॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या सा च प्राग्वत् । सम्प्रति क्षिप्तचित्तप्ररूपणार्थमाह
लोइय लोउत्तरिओ, दुविहो खित्तो समासतो होइ। कह पुण हवेज खित्तो?, इमेहिं सुण कारणेहिं तु ॥ १०६० ॥
समासतः सझेपतः द्विविधः द्विप्रकारः क्षिप्तो भवति। तद्यथा-लौकिको लोकोत्तरिकश्च। तत्र लोके भवो लौकिकः, अध्यात्मादित्वादिकण्। एवं लोकोत्तरे भवो लोकोत्तरिकः । अथ कथं केन प्रकारेण पुनः क्षिप्तः क्षिप्तचित्तो भवेत्? सूरिराह-शृणु एभिः वक्ष्यमाणैः कारणैर्भवति ॥१०६० ॥ तान्येव कारणान्याह
रागेण वा भयेण व, अहवा अवमाणितो नरिंदेण। एएहिं खित्तचित्तो, वणियादि परूविया लोए ॥ १०६१॥
[बृ.क.भा. ६१९५] १. एषा १०६० गाथा जेभा. खंभा. P अ. स. प्रतिषु नास्ति ।
गाथा १०६०-१०६५ क्षिप्तचित्तवैयावृत्त्यम्
५५८ (A)
For Private and Personal Use Only