________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् पीठिका
१९ (A)
तदादिपरिग्रहः, लोकोत्तरिको द्रव्यव्यवहर्तव्यो भवति। भावे भावविषयः पुनः लोकोत्तरिको व्यवहर्तव्यो गीतो वा गीतार्थो वा, अगीतो वेति अगीतार्थो वा प्रायश्चित्तप्रतिपत्त्यर्थं सद्भावेनोपस्थितः॥१९॥ स च वक्ष्यमाणगुणैरुपेतः सन् भवतीति तानेव गुणानुपदर्शयति
अवंके१ अकुडिले२ यावि, कारणपडिसेवि३ तह य आहच्च४ । । पियधम्मे य बहुसुए,५ बिइयं६ उवदेसपच्छित्तं७ ॥ २० ॥
वक्रोऽसंयतो, न वक्र: अवक्रः, संयतः, विरत इत्यर्थः१। अकुटिलः अमायी; चशब्दादक्रोधी अमानी अलोभी चेतिपरिग्रहः२। अपिः पदार्थसम्भावने स चामन् पदार्थान् सम्भावयति- कारणे समापतिते सति नामैको यतनया प्रतिसेवते इत्येको भङ्गः, कारणे अयतनयेति द्वितीयः, अकारणे यतनयेति तृतीयः, अकारणेऽयतनयेति चतुर्थः, अत्र प्रथमभङ्गः शुद्ध इति तत्प्रतिपादनार्थमाह- 'कारणप्रतिसेवी' कारणे अशिवादिलक्षणे विशुद्धेनाऽऽलम्बनेन बहुशो विचार्य शुल्कादिपरिशुद्धलाभाऽऽकाक्षिवणिग्दृष्टान्तेनाऽकृत्यं | १. पडिसेविए य - वाभा० ॥ २. शङ्कादि ( ? शुक्लादि)- पु० प्रे० ॥
गाथा १८-२० व्यवहर्त्तव्य स्वरुपम्
१९ (A)
For Private And Personal Use Only