SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ www.kobatirth.org Acharya Shri Kailassagarsun Gyanmanor Shri Mahavir Jain Aradhana Kendra व्यवहार सूत्रम् पीठिका १९ (B) यतनया प्रतिसेवते इत्येवंशीलः कारणप्रतिसेवी, तहय आहच्चेति तथा चेति समुच्चये, कारणेऽप्यकृत्यप्रतिसेवी न यदा तदा वा, किन्तु, आहच्च' कदाचित्, अन्यथा वा दीर्घसंयमस्फातिमनुपलक्षमाणः। अथवा 'आहच्चेति' कदाचिदकारणेऽपि प्रतिसेवी ४।। पियधम्मे य बहुसुए इति 'आद्यन्तयोर्ग्रहणे मध्यस्यापि ग्रहणम्' इति न्यायात् प्रियधर्मा | दृढधर्मा संविग्नोऽवद्यभीरुः सूत्रार्थतदुभयविद् इत्यपि दृष्टव्यम्, एते सर्वेऽपि व्यवहर्त्तव्याः ५। बिइयंति अत द्वितीयं मतान्तरं केचिदाहु:- अवक्रादीनामपि प्रतिपक्षा व्यवहर्त्तव्या इति | ६। 'उवदेसपच्छित्तं' इह द्विविधः साधुः- गीतार्थोऽगीतार्थश्च, तत्र यो गीतार्थः स गीतार्थत्वादेवाऽनाभाव्यं न गृह्णातीति न तस्योपदेशः, यः पुनरगीतार्थस्तस्याऽनाभाव्यं गृह्णत उपदेशो दीयते, यथा- 'न युक्तं तवाऽनाभवद् गृहीतुं, यदि पुनरनाभवद् ग्रहीष्यसि ततस्तन्निमित्तं प्रायश्चित्तं भविष्यति' इत्युपदेशदानं, तत एवमुपदेशे दत्ते सति दानप्रायश्चित् भविष्यति इत्युपदेशदानं दीयते ७, इति गाथासमासार्थः ॥ २० ॥ गाथा १८-२० व्यवहर्त्तव्य स्वरुपम् अत्र शिष्यः प्राह-कारणप्रतिसेवी भावव्यवहर्त्तव्य उक्तः स कथमुपपद्यते? प्रतिषिद्धं १९ (B) १. यमास्फाति० वा. मो० पु० ॥ २. बनो वजभीरुः - वा. विना ॥ ३. तं दीयते - वा. मो० पु० मु० ॥ For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy