________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् पीठिका
हि यतनयापि सेवमानो जिनाज्ञाप्रद्वेषकारी, ततः स दुष्टभाव इति कथं भावव्यवहर्त्तव्यः ? नैष दोषः, जिनाज्ञाप्रद्वेषकारित्वाऽभावात्, स हि कारणे प्रतिसेवायामपि वर्त्तते जिनाज्ञामवलम्ब्यैव, यथाऽस्यामवस्थायां दीर्घसंयमस्फातिनिमित्तमकृत्यप्रतिसेवायामपि प्रवर्तितव्यमिति, ततो न कश्चिद्दोषः, अपि च भगवन्तो वीतरागा न मिथ्या कदाचनापि ब्रुवते, वीतरागतया तेषां मिथ्यावचनकारणाभावात्; 'उक्तं च
"रागाद्वा द्वेषाद्वा मोहाद्वा वाक्यमुच्यते ह्यनृतम् । यस्य तु नैते दोषास्तस्याऽन्तकारणं किं स्यात्?'॥१॥ [लोकतत्त्व]
२० (A) |
भगवता च अयतनयापि कारणे प्रतिसेविनो भावव्यवहर्त्तव्या उक्ताः, तद्यदि भगवद्वचनाद् द्वितीयभङ्गवर्त्तिनोपि भावव्यवहर्त्तव्यास्ततः प्रथमभङ्गवर्तिनः सतरां भावव्यवहर्त्तव्या भवेयुः, तथा चाह
आहच्च कारणम्मि, सेवंतो अजयणं सिया कुज्जा । एसो वि होइ भावे, किं पुण जयणाए सेवंतो? ॥ २१ ॥
गाथा २१-२४ लोकोत्तर व्यवहर्तव्य स्वरुपम्
२० (A)
१. व- वाभा० ॥
For Private And Personal Use Only