________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम् पीठिका
२० (B)
www.kobatirth.org
'आहच्च' कदाचित् अनन्यगत्या 'कारणे' अशिवादिलक्षणे अकृत्यं सेवमानः स्यात्कदाचिद् 'अयतनां कुर्यात् अयतनया प्रतिसेवेतेति भाव:, 'एषोऽपि' भगवद्वचनाद्भवति भावे व्यवहर्त्तव्यः, किं पुनर्यतनया प्रतिसेवमानः प्रथमभङ्गवर्त्ती ? स सुतरां भवेद्भावे व्यवर्हतव्य इत्यर्थः ॥ २१ ॥ न केवलं प्रथमभङ्गवर्ती द्वितीयभङ्गवर्ती वा भगवद्वचनाद् भावे व्यवहर्तव्यः, किन्तु तृतीयभङ्गवर्त्यपि तथा चाह—
पंडिसेवियम्मि सोहिं, काहं आलंबणं कुणइ जो उ । सेवंतो वि अकिच्चं ववहरियव्वो स खलु भावे ॥ २२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
गाथा
२१-२४
लोकोत्तर
कारणमन्तरेणाऽपि यतनया 'प्रतिसेविते' अकृत्ये पश्चात् 'शोधिं' प्रायश्चित्तमहं करिष्यामीत्येवंरूपमालम्बनं यः करोति, किमुक्तं भवति ? - एवंरूपेणाऽऽलम्बनेनाऽकृत्ये यः प्रवृत्तिं चिकीर्षति स तथारूपमालम्बनं कृत्वा प्रतिसेवमानोऽप्यकृत्यं खलु निश्चितं व्यवहर्तव्य भावे व्यवहर्त्तव्यः, अन्तःकरणविशुद्धिपुरस्सरं यतनया प्रवर्तमानत्वेन भावतो
स्वरुपम्
१. ॰द्भावव्य॰ वा॰ पु॰ ॥ २. आलोइतम्मि सोधि - इति चूर्णिसम्मतः पाठः । पडिसेविए विसोहिं -
वाभा० ॥
For Private And Personal Use Only
२० (B)