________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
पीठिका
व्यवहारयोग्यत्वात्; किमुक्तं भवति? - अकारणे यतनयेति तृतीयभङ्गवर्त्यपि भगवद्वचनाद् || भावव्यवहर्तव्यो वेदितव्य इति ॥२२॥ तदेवं चतुर्भङ्गिकायामाद्यभङ्गत्रयवर्तिनो व्यवहार
भावव्यवहर्तव्या उक्ताः, सम्प्रति चतुर्भङ्गिकामनपेक्ष्याऽन्यथैव भावव्यवहर्तव्यलक्षणमाहसूत्रम्
अहवा कज्जाऽकजे, जताऽजतो वा वि सेविउं साहू । २१ (A)
सब्भावसमाउट्टो, ववहरियव्वो हवइ भावे ॥ २३ ॥
अथवेति प्रकारान्तरे, तच्च प्रकारान्तरमिदं- प्राक् चतुर्भङ्गिकां प्ररूप्य भावव्यवहर्त्तव्या उक्ताः, सम्प्रति तु तामनपेक्ष्यैव भावव्यवहर्त्तव्योऽभिधीयते, कथम्? इति चेद्, अत आह,- कजाऽकज्जे कार्ये-अशिवादिनिस्तरणलक्षणे प्रयोजने, अकार्येतथाविधपुष्टप्रयोजनाऽभावे जयाऽजयो व त्ति यतमानो वा अयतमानो वा साधुरकृत्यं सेवित्वा सद्भावेन पुनरकरणलक्षणया तात्त्विक्या वृत्त्या समावृत्त:-अकृत्यकरणात् प्रत्त्यावृत्तः सन्, गुरोः समीपे य: आलोचयतीति शेषः, स भावे भवति व्यवहर्त्तव्यः भावतोऽकृत्यकरणत: प्रत्यावृत्तत्वात् ॥२३॥ सम्प्रति प्राक्प्ररूपितायां चतुर्भङ्गिकायां यश्चतुर्थो भङ्गस्तत्प्ररूपणार्थमाह
गाथा २१-२४ लोकोत्तर व्यवहर्तव्य स्वरुपम्
२१ (A)
For Private And Personal Use Only