________________
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
पीठिका १८ (B)
.
* एवमादयः, आदिशब्दाद् अपेयं सुरादिकं पीत्वा प्रायश्चित्तनिमित्तं चतुर्वेदमुपस्थितो ब्रूते
'स्वप्ने अपेयपानं कृतवानहम्' इत्यादिपरिग्रहः। लोयदव्वत्ति, लौकिका द्रव्यव्यवहर्तव्याः उज्जू पुण होइ भावम्मि, अत्र सामान्यविवक्षायामेकवचनं, ततोऽयमर्थ:- त एव जातमृत-सूतकादिनि!ढादय ऋजवः सन्तो यदा सम्यगालोचयन्ति, तदा भावे-भावविषया लौकिका व्यवहर्त्तव्या भवन्ति ॥१८॥ उक्ता लौकिकद्रव्य-भावव्यवहर्तव्याः। सम्प्रति लोकोत्तरिकद्रव्य-भावव्यवहर्तव्यप्रतिपादनार्थमाह
परपच्चएण सोही, दव्युत्तरिओ उ होइ एमादी । गीतो व अगीतो वा, सब्भाव उवट्ठिओ भावे ॥ १९ ॥
यस्य शोधिः परप्रत्ययेन, पर:- आचार्यादिकः स एव प्रत्ययः- कारणं तदा परप्रत्ययस्तेन, किमुक्तं भवति?- नूनमहं प्रतिसेवमान आचार्येण उपाध्यायेनाऽन्येन वा साधुना ज्ञातोऽस्मि, ततः सम्यगालोचयामि' इत्येवं परप्रत्ययेन यस्य शोधिप्रतिपत्तिः, एवमादिः, आदिशब्दाद् यो गुरुं दोषं सेवित्वा अल्पं कथयति स्वकृतं वाऽन्यकृतं ब्रवीति
गाथा १८-२० व्यवहर्त्तव्य स्वरुपम्
१८ (B)
१. मादि, आ० वा० ॥२. विषये लौ० वा. पु० ॥ ३. का द्र. वा. पु० ॥ ४. तारिए उ - वाभा० ॥
For Private And Personal Use Only