________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् पीठिका १८ (A)
शूद्रगृहादिषु ये कृतभोजनाः सन्तो धिग्जातीयैर्निर्मूढाः असम्भाष्याः कृताः, तथा ये पातकहताश्च पातकेन ब्रह्महत्यादिलक्षणेन माता-पित्रादिघातलक्षणेन वा हताः पातकहताः,
एते हि द्वयेऽपि यदा न स्वदोषं प्रतिपद्यन्ते, प्रतिपद्यमाना वा न सम्यगालोचयन्ति किन्तु | व्याजान्तरेण कथयन्ति तदा द्रव्यव्यवहर्त्तव्या द्रष्टव्याः।
तथाहि- 'एगो धिज्जाइतो उरालाए ण्हसाए चंडालीए वा अज्झोववण्णो। ततो तं । काएण फासित्ता पायच्छित्तनिमित्तं चउव्वेयमुवट्ठिओ भणति-सुमिणे ण्हुसं चंडालिं वा गतोमि त्ति । एवमादयोऽपि द्रव्यव्यवहर्तव्याः ॥ १७ ॥ तथा चाह
फासेऊण अगम्मं, भणेइ सुमिणे गओ अगम्मं ति । एमादि लोयदव्वे, उज्जू पुण होइ भावम्मि ॥ १८ ॥
स्पष्टवा कायेनेति गम्यते, अगम्यां स्नुषां चाण्डाल्यादिकां वा, स्त्रियमिति शेषः, भणति प्रायश्चित्तनिमित्तं चतुर्वेदमुपस्थितः सन्, यथा- 'स्वप्ने गतोऽगम्यामिति'
१. हत्याल• वा. मो० पु० मुः ॥ २. म्हि - वा. पु० ॥ ३. भणादि - जेभा० खंभा० ॥ ४. लोतदब्वे - जेभा० खंभा० ॥
गाथा १८-२० व्यवहर्त्तव्य स्वरुपम्
१८ (A)
For Private And Personal Use Only