________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
+
श्री
व्यवहार
सूत्रम् पीठिका १७ (B)
लोए चोराईया-दव्वे भावे विसोहिकामा उ । जाय-मयसूतकादिसु, निजूढा पातकहया उ ॥ १७ ॥
लोके लोकविषया व्यवहर्त्तव्या द्विधा, तद्यथा-द्रव्यव्यवहर्त्तव्या भावव्यवहर्त्तव्याश्च । तत्र द्रव्ये द्रव्यव्यवहर्त्तव्याश्चौरादयः, चौरः तस्करः, आदिशब्दात्पारदारिक-घातकहेरिकादिपरिग्रहः, ते हि चौर्यादिकं कृत्वाऽपि न सम्यक् प्रतिपद्यन्ते, बलात्प्रतिपद्यमाना अपि च न भावतो विशोधिमिच्छन्ति, ततस्ते द्रव्यव्यवहर्त्तव्याः। भावे भावविषया व्यवहर्त्तव्याः विशोधिकामा एव, तुशब्दस्य एवकारार्थत्वात्, विशोधौ कामः-अभिलाषो येषां ते विशोधिकामाः । कथमस्माकमेतत्कुकर्मविषया विशुद्धिर्भविष्यति? इति विशुद्धिप्रतिपत्त्यभ्युद्गता भावव्यवहर्तव्या इति भावः। न केवलं द्रव्यव्यवहर्तव्याश्चौरादयः, किंतु जाय-मयसूयगाइसु निज्जूढा इत्यादि, सूतकशब्दः प्रत्येकमभिसम्बध्यते, जातसूतकं मृतसूतकं च । जातसूतकं नाम जन्मानन्तरं दशाहानि यावत्, मृतसूतकं नाम मृतानन्तरं दशदिवसान् यावत्, तत्र जातकसूतके मृतसूतके वा; आदिशब्दात् तदन्येषु तथाविधेषु
गाथा १५-१७ व्यवहारिव्यवहर्तव्यस्वरूपम्
१७ (B)
१. पत्त्युद्गता - वा. मो० ॥ २. तदाद्येषु - वा. मो० पु० मु० ॥
For Private And Personal Use Only