SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir X व्यवहार सूत्रम् पीठिका १७ (A) अथवेति व्याख्यानान्तरोपदर्शने, एषोऽनुवर्तितः सन् मह्यमाहारादिकं दास्यतीत्येषाऽपेक्षा-लञ्चोपजीवनस्वभावा निश्रा । तथा एष मे शिष्यः, एष मे प्रतीच्छकः, इदं मे |* मातृकुलमिदं मे पितृकुलम्' आदिशब्दाद् ६ मम सहदेशनिवासिनः,भक्ता वा इमे सदैव मम' इत्यपेक्षा पक्षाभ्युपगमस्वरूपा भवत्युपश्रा, आभ्यां हि व्यवहारिणो द्रव्यव्यवहारिणो भवन्ति, 'गीया वा लंचपक्खेहिं' [गा. १३] इति वचनात्, तत एतयोः प्रतिषेधः ॥ १६ ॥ उक्ता व्यवहारिणः सम्प्रति व्यवहर्त्तव्याः वक्तव्याः ते च नामादिभेदाच्चतु , तद्यथानामव्यवहर्त्तव्याः, स्थापनाव्यवहर्त्तव्या द्रव्यव्यवहर्त्तव्या भावव्यवहर्त्तव्याश्च। तत्र नामस्थापने प्रतीते । द्रव्यव्यवहर्त्तव्या अपि द्विधा-आगमतो नोआगमतश्च। तत्राऽऽगमतो व्यवहर्तव्यशब्दार्थज्ञास्ते चानुपयुक्ताः । नोआगमतोऽपि त्रिविधाः, ज्ञशरीर-भव्यशरीरतद्व्यतिरिक्तभेदात् । तत्र ज्ञशरीर-भव्यशरीररूपाः प्रतीताः, तद्व्यतिरिक्तास्तु द्विधालौकिका, लोकोत्तरिकाश्च । भावव्यवहर्त्तव्या द्विधा-आगम-नोआगमभेदात्, तत्र आगमतो व्यवहर्त्तव्यपदार्थज्ञाः तत्र चोपयुक्ताः, नोआगमतो द्विधा- लौकिका लोकोत्तरिकाश्च, तत्र नोआगमतो लौकिकद्रव्य-भावव्यवहर्तव्यप्रतिपादनार्थमाह गाथा १५-१७ व्यवहारिव्यवहर्तव्यस्वरूपम् १७ (A) १. इमे मे स० वा. पु० ॥ २. अस्यां हि - वा. मो० पु० मु० ॥ ३. व्याश्च द्विधा-मो० पु० ॥ For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy