________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
श्री
* लञ्चोपचारनिरपेक्षव्यवहारकारिणः, न रागेण व्यवहारकारिणः अनुपश्रितव्यवहारकारिणः इति किमुक्तं भवति ? - पक्षपातनिरपेक्षव्यवहारपरिच्छेत्तार इति ॥ १४ ॥ अथ व्यवहार- प्रियधर्म्म- दृढधर्म्म-संविग्नसूत्रार्थतदुभयविद्ग्रहणे किं फलम् ? इत्यत आहपियधम्मे दढधम्मे य, पच्चओ होइ गीय संविग्गे । रागो उ होइ निस्सा, उवस्सितो देससंजुत्तो ॥ १५ ॥
सूत्रम् पीठिका
१६ (B)
Acharya Shri Kailassagarsuri Gyanmandir
प्रियधर्म्मणि दृढधर्मे, चः समुच्चये भिन्नक्रमश्च, गीते गीतार्थे सूत्रार्थतदुभयविदि संविग्ने च प्रायश्चित्तं ददति प्रत्ययः विश्वासो भवति । यथा- अयं प्रियधर्म्मा दृढधर्मो गीतार्थः संविग्नश्चेति नान्यथा प्रायश्चित्तव्यवहारकारीति प्रियधर्म्मादिपदानामुपन्यासः, तथा अनिश्रितव्यवहारकारिणः इत्यत्र यो निश्राशब्दस्तदर्थमाचष्टे रागस्तु भवति निश्रा । अनुपश्रितव्यवहारकारिण इत्यत्रोपश्रितशब्दस्य व्याख्यानमाह- उपश्रितो द्वेषसंयुक्तः, उपश्रा द्वेष इत्यनर्थान्तरमिति भावः ॥ १५ ॥ द्वितीयं व्याख्यानं निश्रोपश्राशब्दयोर्दर्शयति
अहवा आहारादी, दाहीइ मज्झं तु एस निस्सा उ । सीसो पडिच्छओ वा, होइ उवस्सा कुलादी वा ॥ १६ ॥
१. ण । इतेि किमुिक्तं वा० मो० पु० ॥
For Private And Personal Use Only
܀܀܀܀܀
गाथा
१५- १७
व्यवहारि
व्यवहर्तव्य
स्वरूपम्
१६ (B)