________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् पीठिका १६ (A)
सूत्रविदो नामैके नो अर्थविदः १, नो सूत्रविदोऽर्थविदः २, अपरे सूत्रविदोऽपि अर्थविदोऽपि ३, अन्ये नो सूत्रविदो नाप्यर्थविदः ४ । अत्र तृतीयभङ्गेनाधिकारः, तत्रापि सूत्रवेलायां सूत्रविद्भिः, अर्थवेलायामर्थविद्भिः, तदुभयवेलायां तदुभयविद्भिरिति सूत्राऽर्थ-तदुभयग्रहणम् । अणिस्सियववहारकारी य इति निश्रा-रागः, निश्रा सञ्जाता अस्येति निश्रितः, न निश्रितोऽनिश्रितः, स चासौ व्यवहारश्च अनिश्रितव्यवहारः, तत्करणशीला अनिश्रितव्यवहारकारिणः, न रागेण व्यवहारकारिण इति भावः । 'एकग्रहणे तज्जातीयस्यापि ग्रहणम्' इति न्यायादनुपश्रितव्यवहारकारिण इत्यपि द्रष्टव्यम्। तत्र उपश्रा नाम-द्वेषः, उपश्रा सञ्जाता अस्येति उपश्रितः, स चासौ व्यवहारश्च, उपश्रितव्यवहारः, न उपश्रितव्यवहारः अनुपश्रितव्यवहारः, तत्करणशीला अनुपश्रितव्यवहारकारिण; न द्वेषेण व्यवहारकारिण इत्यर्थः । अथवा एषोऽनुवर्त्तितः सन् मह्यमाहारादिकमानीय दास्यतीत्यपेक्षा निश्रा, एष मदीयः शिष्यो, यदि वा प्रतीच्छकोऽथवा मदीयं मात्रादिकुलमेतत्, मदीया वा एते श्रावका इत्यपेक्षा उपश्रा, शेषं तथैव । अत्र 'अनिश्रितव्यवहारकारिण इति किमुक्तं भवति ?
गाथा १५-१७ व्यवहारिव्यवहर्तव्यस्वरूपम्
१६ (A)
१. ग्रहणेन त० वा. पु० ॥ २. ताः, न उपश्रितोऽनुपश्रितः, स चाऽसौ व्यवहारश्च [ अनुपश्रितव्यवहारः] तत्क• वा० भो पु० ॥
For Private And Personal Use Only