________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् पीठिका १४ (B)
भव्यशरीर-तव्यतिरिक्तभेदात् । तत्र ज्ञशरीर-भव्यशरीरद्रव्यव्यवहारिणः प्रतीताः, तद्व्यतिरिक्ता द्विविधाः- लौकिका लोकोत्तरिकाश्च, भावव्यवहारिणोऽपि द्विधा- आगमतो नोआगमतश्च। आगमतो व्यवहारिशब्दार्थज्ञास्तत्र चोपयुक्ताः। नोआगमतो द्विधा-लौकिका लोकोत्तरिकाश्च। तत्र पूर्वार्द्धन नोआगमतो द्रव्य-भावलौकिकव्यवहारिणः प्रतिपादयति द्रव्ये विचार्यमाणे नोआगमतो ज्ञशरीर-भव्यशरीरव्यतिरिक्ता लौकिका व्यवहारिणः खलु 'लंचिल्ला' इति, लञ्चा उत्कोच इत्यनर्थान्तरं, तद्वन्तः । किमुक्तं भवति? परलञ्चामुपजीव्य ये सापेक्षाः सन्तो व्यवहारपरिच्छेदकारिणस्ते द्रव्यतो लौकिका व्यवहारिणः, 'भावतो उ मज्झत्था 'इति भावतः पुन!आगमतो लौकिका व्यवहारिणः मध्यस्थाः मध्ये रागद्वेषयोरपान्तराले तिष्ठन्तीति मध्यस्थाः, ये परलञ्चोपचारमन्तरेणाऽरक्ताऽद्विष्टाः सन्तो न्यायैकनिष्ठतया व्यवहारपरिच्छेत्तारस्ते नोआगमतो लौकिका भावव्यवहारिण इति भावः।
अधुना लोकोत्तरिकान् नोआगमतो द्रव्यव्यवहारिणः प्रतिपादयति- 'उत्तर दव्व अगीया' इत्यादि, उत्तरे लोकोत्तरे द्रव्ये विचार्यमाणे नोआगमतो द्रव्यव्यवहारिणः, अगीता-अगीतार्थाः, ते हि यथावस्थितं व्यवहारं न कर्तुमवबुध्यन्ते, ततस्तद्व्यवहारो
१-२. लौकिकव्य खं ॥
गाथा १३-१४ व्यवहारिस्वरूपम्
१४ (B)
For Private And Personal Use Only