________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् पीठिका
१५ (A)
द्रव्यव्यवहार एव, भावस्य-यथावस्थितपरिज्ञानलक्षणस्याऽभावात्, द्रव्यशब्दोऽत्राऽप्रधानवाची, अप्रधानव्यवहारिणस्ते इत्यर्थः, 'गीया वा लंचपक्खेहिं' इति, यदि वा गीतार्था अपि सन्तो ये परलञ्चामुपजीव्य व्यवहारं परिछिन्दन्ति तेऽपि द्रव्यव्यवहारिणः, अथवा विनाऽपि लञ्चया गीतार्था अपि ये 'ममायं भ्राता, ममायं निजकः' इति पक्षण-पक्षपातेन व्यवहारकारिणस्तेऽपि द्रव्यव्यवहारिणः, माध्यस्थ्यरूपस्य भावस्याऽसम्भवात् ॥१३॥ सम्प्रति नोआगमतो लोकोत्तरिकान भावव्यवहारिणः प्राहपियधम्मा दढधम्मा, संविग्गा चेवऽवजभीरू अ । सुत्त-ऽत्थ-तदुभयविऊ अणिस्सियववहारकारी य ॥ १४ ॥ प्रियो धर्मो येषां ते प्रियधर्माणः। धर्मे दृढा दृढधर्माः, राजदन्तादित्वाद् दृढशब्दस्य पूर्वनिपातः। अत्र चतुर्भङ्गिका-प्रियधर्माणो नामैके नो दृढधर्मा इति प्रथमो भङ्गः, नो प्रियधर्माणो दृढधाश्चेति द्वितीयः, अपरे प्रियधर्माणो दृढधमाश्चेति तृतीयः, अन्ये नो प्रियधर्माणो नो दृढधर्मा इति चतुर्थः। अत्र तृतीयो भङ्गोऽधिकृतः, न शेषा इति प्रतिपत्त्यर्थं
गाथा १३-१४ व्यवहारिस्वरूपम्
१५ (A)
१. लञ्चां गी० वा. मो० पु० ॥२. व्यवहारिण० वा. पु० ॥३. मध्यस्थरू० वा. मो० पु० ॥
For Private And Personal Use Only