________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
पीठिका
१४ (A) |
܀܀܀܀
www.kobatirth.org
गतैककायोत्सर्गाऽकरणे पूर्वार्द्धम्, कायोत्सर्गद्वयाऽकरणे एकाशनकमित्यादि, तथा ये योगाः उपधानानि बहुविकल्पाः गच्छभेदेन बहुभेदा आचार्यपरम्परागतत्वेन चाऽविरूद्धाः । यथानागिलकुलवंशवर्त्तिनां साधूनामाचारादारभ्य यावदनुत्तरोपपातिकदशाः, तावन्नास्ति आचाम्लं केवलं निर्विकृतिकेन ते पठन्ति आचार्यानुज्ञाताश्च विधिना कायोत्सर्गं कृत्वा विकृती: परिभुञ्जते, तथा कल्प- व्यवहारयोः चन्द्रप्रज्ञप्ति-सूर्यप्रज्ञप्त्योश्च केचिदागाढं योगं प्रतिपन्ना: अपरे त्वनागाढमिति, एस खलु जीयकप्पो उ इति एष सर्व्वेपि खलु गच्छभेदेन प्रायश्चित्तभेदो योगभेदश्चाऽऽचार्यपरम्परागतो जीतकल्पो जीतव्यवहारो वेदितव्यः ॥ १२ ॥ उक्तो व्यवहारः सम्प्रति व्यवहारिणः इति द्वितीयं द्वारमभिधित्सुराह
दव्वंमि लोइया खलु, लंचिल्ला भावतो उ मज्झत्था ।
उत्तर दव्व अगीया गीया वा लंचपक्खेहिं ॥ १३ ॥ दारं २ ।
१. सुज्ञाने खं० ॥
व्यवहारिणश्चतुर्द्धा तद्यथा— नामव्यवहारिणः, स्थापनाव्यवहारिणः, द्रव्यव्यवहारिणो, भावव्यवहारिणश्च, तत्र नाम - स्थापने सुंज्ञाते, द्रव्यव्यवहारिणो द्विधा - आगमतो नोआगमतश्च । तत्राऽऽगमतो व्यवहारिशब्दार्थज्ञास्तत्र चाऽनुपयुक्ताः । नोआगमतस्त्रिविधा ज्ञशरीर
-
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
****
गाथा
१३-१४ व्यवहारिस्वरूपम्
१४ (A)