________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
श्री
व्यवहार
सूत्रम्
पीठिका
१३ (B)
प्रतिक्रामति-न कालप्रतिक्रमणनिमित्तं कायोत्सर्ग करोति, आदिशब्दाद् येषु स्थानेष्वीर्यापथिकया प्रतिक्रमितव्यं, तेषु चेत् तथा न प्रतिक्रामति तर्हि प्रायश्चित्तं निर्विकृतमिति। तथा निव्वीतिय इत्यादि आवासे आवश्यके एकादिकायोत्सर्गाऽकरणे सर्वाऽऽवश्यकाऽकरणे च | यथासङ्ख्यं निर्विकृतिक-पूर्वार्धाऽऽचाम्ल-क्षपणानि । इयमत्र भावना- आवश्यके यद्येकं कायोत्सर्ग न करोति ततः प्रायश्चित्तं निर्विकृतिकं, कायोत्सर्गद्वयाऽकरणे पूर्वार्द्ध, त्रयाणामपि कायोत्सर्गाणामकरणे आचाम्लं, सर्वस्यापि चाऽऽवश्यकस्याऽकरणे अभक्तार्थम् इति ॥ ११॥
जं जस्स व पच्छित्तं आयरियपरंपराए अविरुद्धं । जोगा य बहुविगप्पा एसो खलु जीयकप्पो उ ॥ १२ ॥ दारं १॥
यत् प्रायश्चित्तं यस्याचार्यस्य गच्छे आचार्यपरम्परया आचार्यपरम्परागतत्वेन अविरुद्धं न पूर्वपुरुषमर्यादाऽतिक्रमण विरोधभाक । यथाऽन्येषामाचार्याणां नमस्कारपौरुष्यादिप्रत्याख्यानस्याकरणे कृतस्य वा भने प्रायश्चित्तमाचाम्लम्। तथा आवश्यक
१. बहुविहीया - चूर्णिसम्मतः पाठः ॥
गाथा १०-१२ जीतव्यवहारे प्रायश्चित्तम्
१३ (B)
For Private And Personal Use Only