________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
पीठिका १३ (A)
गाढं परितापयति तत आचाम्लम्। उपलक्षणमेतत्, तेनैतदपि जीतव्यवहारानुगतमवसेयं| यदि दर्दुरप्रभृतीन् तिर्यक्पञ्चेन्द्रियान् मनाक् सङ्घट्टयति तत एकाशनकम्, अर्थानागाढं परितापयति तत आचाम्लं, तथा अनन्तवनस्पतिकायिक-द्वि-त्रि-चतुरिन्द्रियाणां सङ्घट्टने पूर्वार्द्धम, इत्येषामेवानागाढपरितापने एकाशनम्, तथा पृथिव्यप्तेजोवायुप्रत्येकवनस्पतीनां सङ्घट्टने निर्विकृतिकम्, अनागाढपरितापने परिमार्द्धम्, आगाढपरितापने एकाशनं, जीविताद व्यपरोपणे आचाम्लमिति ॥ १० ॥ इदमपि जीतमेवेति दर्शयति
अपरिण्णा कालाइसु, अपडिकंतस्स निव्विगइयं तु ।। 'निव्वीतिय पुरिमड्डो, अंबिल खवणा य आवासे ॥ ११ ॥ 'अपरिज्ञा'-प्रत्याख्यानपरिज्ञाया अग्रहणं गृहीताया वा भङ्गः, तत्र सूत्रे विभक्तिलोप आर्षत्वात्, तथा 'कालादिषु अप्रतिक्रामतो' अव्यावर्तमानस्य प्रायश्चित्तं निर्विकृतिकम्। | किमुक्तं भवति?- यदि नमस्कार-पौरुष्यादिदिवसप्रत्याख्यानं वैकालिकं च पानाहारप्रत्याख्यानं न गृह्णाति, गृहीत्वा वा विराधयति, तथा स्वाध्यायं प्रस्थाप्य यदि कालस्य न
१. था गाढं - J. B3 ॥ २. णिब्वियतिय पु० खंभा जेभा० । निव्वी इय पुरिमड्डा-खं० ॥
गाथा १०-१२ जीतव्यवहारे प्रायश्चित्तम्
१३ (A)
For Private And Personal Use Only