________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अत्र द्वितीयं स्थानं मृषावादः, एवमदत्तादानादिष्वपि भावनीयम् ।
श्री
व्यवहार
सूत्रम् पीठिका १२ (A)
पढमस्स य कज्जस्स य पढमेण पएण सेवियं जं तु ।
बिइए छक्के अब्भितरं, तु पढमं भवे ठाणं ॥ ३ ॥ अत्र द्वितीयं षटकं-कायषटकमित्यादि। एवं तेन कथिते स आचार्यो द्रव्य-क्षेत्रकाल-भाव-संहनन-धृति-बलादिकं परिभाव्य स्वयं वा गमनं करोति, शिष्यं वा तथाविधं योग्यं गीतार्थं प्रज्ञाप्य प्रेषयति। तदभावे तस्यैव प्रेषितस्य गूढार्थामतिचारविशुद्धिं कथयति । धारणाव्यवहारो नाम-गीतार्थेन संविग्नेनाऽऽचार्येण द्रव्य-क्षेत्र-काल-भाव-पुरुषान् प्रतिसेवनाश्चावलोक्य यस्मिन्नपराधे यत् प्रायश्चित्तम् अदायि, तत्सर्वमन्यो दृष्ट्वा तेष्वेव द्रव्यादिषु तादृश एवापराधे तदेव प्रायश्चित्तं ददाति, एष धारणाव्यवहारः। अथवा वैयावृत्त्यकरस्य गच्छोपग्राहिणः स्पर्द्धकस्वामिनो वा देशदर्शनसहायस्य वा संविग्नस्योचितप्रायश्चित्तदानधारणमेष धारणाव्यवहारः । एतौ च द्वावप्यर्थात्मकत्वादर्थग्रहणेन सूचितौ, जीतव्यवहारस्तु जीतशब्देनैव साक्षादुपात्तः । अथ जीतमिति कोऽर्थः? इत्यत आहबहुजणेत्यादि, बहभिर्जनैर्गीतार्थैराचीर्णं बहजनाचीर्णमिति वा 'उचितमिति' वा जीतमिति
गाथा ७-१२ व्यवहारस्य पर्यायादि
१२ (A)
For Private And Personal Use Only