________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
श्री
व्यवहार
सूत्रम्
पीठिका ११ (B)
दिसूत्रार्थतदुभयविदश्च, ततो भवति सूत्रग्रहणेनाऽऽगम-श्रुतव्यवहारयोर्ग्रहणं, चतुर्दशपूर्वादीनां कल्प-व्यवहारादिच्छेदग्रन्थानामपि च सूत्रात्मकत्वात् । तथा अर्थतः अर्थशब्देन सूचितौ त्रि-चतुर्थी तृतीय-चतुर्थी आज्ञा-धारणालक्षणौ व्यवहारौ, तथाहि-आज्ञाव्यवहारो नामयदा द्वावप्याचार्यावासेवितसूत्रार्थतयाऽतिगीतार्थों क्षीणजङ्घाबलौ विहारक्रमानुरोधत: विप्रकृष्टदेशान्तरनिवासिनौ अत एवाऽन्योन्यस्य समीपं गन्तुमसमर्थावभूतां, तदाऽन्यतरस्मिन् प्रायश्चित्ते समापतिते सति तथाविधयोग्यगीतार्थशिष्याभावे मतिधारणाकुशलमगीतार्थमपि शिष्यं गूढार्थान्यतिचाराऽऽसेवनपदानि कथयित्वा प्रेषयति। यथा
'पढमस्स य कज्जस्स य पढमेण पएण सेवियं जंतु । पढमे छक्के अब्भिंतरं, तु पढमं भवे ठाणं ॥ १ ॥'
अत्र प्रथमं कार्यं दर्पः, तत्र प्रथमं पदं दर्पः, तन्निमित्तं, प्रथमं षट्कं-व्रतषट्कम्। तत्राभ्यन्तरम् अन्तर्गतं प्रथम स्थान प्राणातिपातः ।
गाथा ७-१२ व्यवहारस्य पर्यायादि
११ (B)
पढमस्स य कज्जस्स य, पढमेण पएण सेवियं जंतु । पढमे छक्के अब्भिंतरं, तु बीयं भवे ठाणं ॥ २ ॥
For Private And Personal Use Only